वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: विश्वामित्रो गाथिनः छन्द: गायत्री स्वर: षड्जः काण्ड:

सा꣣ह्वा꣡न्विश्वा꣢꣯ अभि꣣यु꣢जः꣣ क्र꣡तु꣢र्दे꣣वा꣢ना꣣म꣡मृ꣢क्तः । अ꣣ग्नि꣢स्तु꣣वि꣡श्र꣢वस्तमः ॥१५५८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः । अग्निस्तुविश्रवस्तमः ॥१५५८॥

मन्त्र उच्चारण
पद पाठ

साह्वा꣢न् । वि꣡श्वाः꣢꣯ । अ꣣भियु꣡जः꣢ । अ꣣भि । यु꣡जः꣢꣯ । क्र꣡तुः꣢꣯ । दे꣣वा꣡ना꣢म् । अ꣡मृ꣢꣯क्तः । अ । मृ꣣क्तः । अग्निः꣢ । तु꣣वि꣡श्र꣢वस्तमः । तु꣣वि꣢ । श्र꣣वस्तमः ॥१५५८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1558 | (कौथोम) 7 » 2 » 9 » 3 | (रानायाणीय) 15 » 3 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा के गुण वर्णित हैं।

पदार्थान्वयभाषाः -

(विश्वाः अभियुजः) सब आक्रमणकारी काम, क्रोध आदियों को (साह्वान्) अपने बल से तिरस्कृत करता हुआ, (देवानाम्) दिव्य गुणों का (क्रतुः) उत्पादक, (अमृक्तः) किसी से शुद्ध न किया गया अर्थात् स्वतः शुद्ध (अग्निः) तेजस्वी परमेश्वर (तुविश्रवस्तमः) बहुत अधिक यशस्वी है ॥३॥

भावार्थभाषाः -

अनन्त गुणों से युक्त होने के कारण जगदीश्वर की कीर्ति सबसे अधिक बढ़ी हुई है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनो गुणान् वर्णयति।

पदार्थान्वयभाषाः -

(विश्वाः अभियुजः) सर्वान् आक्रान्तॄन् कामक्रोधादीन् (साह्वान्) स्वबलेन तिरस्कुर्वाणः। [दाश्वान् साह्वान् मीढ्वांश्च। अ० ६।१।१२ इति क्वस्वन्तो निपातः।] (देवानाम्) दिव्यगुणानाम् (क्रतुः) कर्ता, (अमृक्तः) न केनापि शोधितः, प्रत्युत स्वतः शुद्धः। [न मृक्तः अमृक्तः। मृजू शौचालङ्कारयोः, निष्ठा।] (अग्निः) तेजस्वी परमेश्वरः (तुविश्रवस्तमः) बहुयशस्तमो वर्तते। [तुवि बहु श्रवः कीर्तिर्विद्यतेऽस्य स तुविश्रवाः, अतिशयेन तुविश्रवाः तुविश्रवस्तमः। तुवि बहुनाम। निघं० ३।१। श्रवः श्रवणीयं यशः। निरु० ११।७] ॥३॥२

भावार्थभाषाः -

अनन्तगुणसमन्वितत्वाज्जगदीश्वरस्य कीर्तिः सर्वातिशायिनी वर्तते ॥३॥